Download PDF

'पञ्चसखा' दर्शनम्

Author : Krishnaiah

Abstract :

पञ्चसखा" उत्कलीय-पारिभाषिक-शब्दविशेषः । अनेन पञ्चानां महापुरुषाणां संयोगो नामोल्लेखो जायते । तेषु बलरामदास-जगन्नाथदास-अच्युतानन्ददास-यशोवन्तदास- शिशु अनन्तदासादयश्च स्मरणीयाः, नमस्याः, अनुकरणीयाः, सम्माननीयाश्चेति सर्वादौ प्रतिभाति । तेषां रमणीयानि दर्शनानि कस्मै न रोचन्ते । भक्तिवादस्य प्रवर्तका इमे उत्कलभूमौ दुःस्थाना भवरोगप्रपीडितानां जनानां कृते कर्णधारा भवन्ति । मार्गदर्शका भवन्ति ,सद्गुरव भवन्तीति नात्र विसंवादः । सर्वादौ जगन्नाथदासविषये वक्ष्यामः ।

Keywords :

पञ्चसखा, हृदयगुहायाम्, षोडश-शताब्द्यां